मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५५, ऋक् ६

संहिता

यदश्वा॑न्धू॒र्षु पृष॑ती॒रयु॑ग्ध्वं हिर॒ण्यया॒न्प्रत्यत्काँ॒ अमु॑ग्ध्वम् ।
विश्वा॒ इत्स्पृधो॑ मरुतो॒ व्य॑स्यथ॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

पदपाठः

यत् । अश्वा॑न् । धूः॒ऽसु । पृष॑तीः । अयु॑ग्ध्वम् । हि॒र॒ण्यया॑न् । प्रति॑ । अत्का॑न् । अमु॑ग्ध्वम् ।
विश्वाः॑ । इत् । स्पृधः॑ । म॒रु॒तः॒ । वि । अ॒स्य॒थ॒ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

सायणभाष्यम्

हेमरुतः यूयं यद्यदाश्वान् धूर्षु रथसंबन्धिनीष्वयुग्धवं योजितवन्तःस्थ कीदृशानश्वान् पृषतीः पृषत्योमरुतामित्युक्तत्वात् पृषद्वर्णाव- डवाः सारंगीर्वात्राश्वशब्दवाच्या हिरण्ययान् हिरण्यवर्णान् अत्कान् कवचान् प्रत्यमुग्ध्वं प्रत्यमुंचत एवंकृत्वा विश्वाइत्स्पृधः सर्वानपि- संग्रामान् हेमरुतः व्यस्यथ विक्षिपथ शुभमित्यादिगतं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८