मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५५, ऋक् १०

संहिता

यू॒यम॒स्मान्न॑यत॒ वस्यो॒ अच्छा॒ निरं॑ह॒तिभ्यो॑ मरुतो गृणा॒नाः ।
जु॒षध्वं॑ नो ह॒व्यदा॑तिं यजत्रा व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

पदपाठः

यू॒यम् । अ॒स्मान् । न॒य॒त॒ । वस्यः॑ । अच्छ॑ । निः । अं॒ह॒तिऽभ्यः॑ । म॒रु॒तः॒ । गृ॒णा॒नाः ।
जु॒षध्व॑म् । नः॒ । ह॒व्यऽदा॑तिम् । य॒ज॒त्राः॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥

सायणभाष्यम्

हेमरुतोयूयमस्मान् वस्योव्सीयोधनं स्वर्गादिलक्षणंस्थानंवा अछ अभिलक्ष्य नयत प्रापयत किंच अंहतिभ्यः पापेभ्योनिर्णयत निर्गम- यत गृणानाः स्तूयमानाः कर्मणिकर्तृप्रत्ययः जुषध्वं सेवध्वं नोस्माकं हव्यदातिं हविर्दानवन्तंयज्ञं हेयजत्राः यष्टव्यायूयंवयंच रयीणां बहु- विधा नांधनानां पतयः स्याम भवेम ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८