मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५६, ऋक् १

संहिता

अग्ने॒ शर्ध॑न्त॒मा ग॒णं पि॒ष्टं रु॒क्मेभि॑र॒ञ्जिभि॑ः ।
विशो॑ अ॒द्य म॒रुता॒मव॑ ह्वये दि॒वश्चि॑द्रोच॒नादधि॑ ॥

पदपाठः

अग्ने॑ । शर्ध॑न्तम् । आ । ग॒णम् । पि॒ष्टम् । रु॒क्मेभिः॑ । अ॒ञ्जिऽभिः॑ ।
विशः॑ । अ॒द्य । म॒रुता॑म् । अव॑ । ह्व॒ये॒ । दि॒वः । चि॒त् । रो॒च॒नात् । अधि॑ ॥

सायणभाष्यम्

हेअग्ने शर्धन्तं शत्रूनभिभवन्तं यज्ञायोत्सहमानंवा गणं मरुतांगणं आह्वयेइतिशेषः कीदृशंगणं रुक्मेभिः रुक्मैः रोचमानैरंजिभिः आ- भरणैश्च पिष्टं अवयवितं युक्तमित्यर्थः अद्यास्मिन्यागदिनेमरुतांविशः प्रजाः गणानित्यर्थः तान्त्रोचनाद्रोचमानाद्दिवोद्युलोकादधीतिपंच-म्यर्थानुवादी चित्पूरणः अव अवस्तात् अस्मदभिमुखं ह्वये आह्वयामि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९