मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५७, ऋक् ६

संहिता

ऋ॒ष्टयो॑ वो मरुतो॒ अंस॑यो॒रधि॒ सह॒ ओजो॑ बा॒ह्वोर्वो॒ बलं॑ हि॒तम् ।
नृ॒म्णा शी॒र्षस्वायु॑धा॒ रथे॑षु वो॒ विश्वा॑ व॒ः श्रीरधि॑ त॒नूषु॑ पिपिशे ॥

पदपाठः

ऋ॒ष्टयः॑ । वः॒ । म॒रु॒तः॒ । अंस॑योः । अधि॑ । सहः॑ । ओजः॑ । बा॒ह्वोः । वः॒ । बल॑म् । हि॒तम् ।
नृ॒म्णा । शी॒र्षऽसु॑ । आयु॑धा । रथे॑षु । वः॒ । विश्वा॑ । वः॒ । श्रीः । अधि॑ । त॒नूषु॑ । पि॒पि॒शे॒ ॥

सायणभाष्यम्

हेमरुतः वोयुष्माकमंसयोरधि ऋष्टयआयुधविशेषाः हिताः आश्रिताः वक्ष्यमाणहितशब्दोविपरिणेतव्यः अधीतिसप्तम्यर्थानुवादी तथा वोबाह्वोरधिसहः शत्रूणामभिभावुकं ओजः ओजोनामाष्टमोधातुः तद्रूपंबलं हितं निहितं शीर्षसु शिरःसु नृम्णा नृम्णानि हिरण्यम- यानि पदृओष्णीषादीनि निहितानि रथेष्वायुधा आयुधानि युद्धसाधनानि निहितानि विश्वा सर्वा वःश्रीः युष्माकंकान्तिः तनूषु तदीयेषु अधिपिपिशे अधिष्ठिताआश्रिता ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२