मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५८, ऋक् १

संहिता

तमु॑ नू॒नं तवि॑षीमन्तमेषां स्तु॒षे ग॒णं मारु॑तं॒ नव्य॑सीनाम् ।
य आ॒श्व॑श्वा॒ अम॑व॒द्वह॑न्त उ॒तेशि॑रे अ॒मृत॑स्य स्व॒राजः॑ ॥

पदपाठः

तम् । ऊं॒ इति॑ । नू॒नम् । तवि॑षीऽमन्तम् । ए॒षा॒म् । स्तु॒षे । ग॒णम् । मारु॑तम् । नव्य॑सीनाम् ।
ये । आ॒शुऽअ॑श्वाः । अम॑ऽवत् । वह॑न्ते । उ॒त । ई॒शि॒रे॒ । अ॒मृत॑स्य । स्व॒ऽराजः॑ ॥

सायणभाष्यम्

तमु तमेव पूर्वंस्तुतमेव मारुतं मरुतांसंबन्धिनं तंगणं तविषीमन्तं दीप्तिमन्तं नूनं अद्य स्तुषे कीदृशांमरुतां नव्यसीनां लिंगव्यत्ययः नवतराणांस्तुत्यानांवा एषांमारुतंगणं गणावयवभूतामरुतः कीदृशाइतिउच्यते येमरुतः आश्वश्वाः शीघ्रगाम्यश्वोपेताः अमवत् बलवत् बलवन्तोयथाभवन्तितथावहन्तोगच्छन्तः उतापिच ईशिरे ईश्वराभवन्ति अमृतस्योदकस्य स्वराजः स्वायत्तदीप्तयः स्वयमेवराजमानाः तेषांगणंस्तुषे ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३