मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५८, ऋक् ३

संहिता

आ वो॑ यन्तूदवा॒हासो॑ अ॒द्य वृ॒ष्टिं ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ ।
अ॒यं यो अ॒ग्निर्म॑रुत॒ः समि॑द्ध ए॒तं जु॑षध्वं कवयो युवानः ॥

पदपाठः

आ । वः॒ । य॒न्तु॒ । उ॒द॒ऽवा॒हासः॑ । अ॒द्य । वृ॒ष्टिम् । ये । विश्वे॑ । म॒रुतः॑ । जु॒नन्ति॑ ।
अ॒यम् । यः । अ॒ग्निः । म॒रु॒तः॒ । सम्ऽइ॑द्धः । ए॒तम् । जु॒ष॒ध्व॒म् । क॒व॒यः॒ । यु॒वा॒नः॒ ॥

सायणभाष्यम्

येविश्वेव्याप्ताः मरुतोवृष्टिंजुनन्ति प्रेरयन्ति तेउदवाहासः उदकस्यवोढारोमरुतः अद्येदानीं वोयुष्मान् आयन्तु आगच्छन्तु ऋत्विग्य- जमानाः अथप्रत्यक्षवादः हेमरुतः यःप्रसिद्धोयमग्निः समिद्धः सम्यग्दीपितः एतमग्निं जुषध्वं सेवध्वं हेकवयोमेधाविनोहेयुवानः नित्यत- रुणाः सर्वत्रव्याप्तावा ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३