मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५९, ऋक् २

संहिता

अमा॑देषां भि॒यसा॒ भूमि॑रेजति॒ नौर्न पू॒र्णा क्ष॑रति॒ व्यथि॑र्य॒ती ।
दू॒रे॒दृशो॒ ये चि॒तय॑न्त॒ एम॑भिर॒न्तर्म॒हे वि॒दथे॑ येतिरे॒ नरः॑ ॥

पदपाठः

अमा॑त् । ए॒षा॒म् । भि॒यसा॑ । भूमिः॑ । ए॒ज॒ति॒ । नौः । न । पू॒र्णा । क्ष॒र॒ति॒ । व्यथिः॑ । य॒ती ।
दू॒रे॒ऽदृशः॑ । ये । चि॒तय॑न्ते । एम॑ऽभिः । अ॒न्तः । म॒हे । वि॒दथे॑ । ये॒ति॒रे॒ । नरः॑ ॥

सायणभाष्यम्

एषां अन्वादेशविषयत्वादनुदात्तः एषांमरुतां भियसा भयेन भूमिरेजति कंपते नौर्न पूर्णा प्राणिभिः सायथोदकमध्ये क्षरति चलति व्यथिः व्यथितायती गच्छन्ती एतदुभयंनौविशेषणं दूरेदृशोदूरेदृश्यमानाअपि येमरुतः एमभिर्गमनैः चितयन्ते ज्ञायन्ते तेमहान्तोमरु- तोविदथे यज्ञे महे महते हविषे हविर्भक्षणाय अमात् स्वस्थानात् अन्तर्द्यावापृथिव्योर्मध्ये येतिरे यतन्ते नरोनेतारोमरुतः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४