मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५९, ऋक् ५

संहिता

अश्वा॑ इ॒वेद॑रु॒षास॒ः सब॑न्धव॒ः शूरा॑ इव प्र॒युध॒ः प्रोत यु॑युधुः ।
मर्या॑ इव सु॒वृधो॑ वावृधु॒र्नर॒ः सूर्य॑स्य॒ चक्षु॒ः प्र मि॑नन्ति वृ॒ष्टिभि॑ः ॥

पदपाठः

अश्वाः॑ऽइव । इत् । अ॒रु॒षासः॑ । सऽब॑न्धवः । शूराः॑ऽइव । प्र॒ऽयुधः॑ । प्र । उ॒त । यु॒यु॒धुः॒ ।
मर्याः॑ऽइव । सु॒ऽवृधः॑ । व॒वृ॒धुः॒ । नरः॑ । सूर्य॑स्य । चक्षुः॑ । प्र । मि॒न॒न्ति॒ । वृ॒ष्टिऽभिः॑ ॥

सायणभाष्यम्

मरुतएतेअश्वाइव शीघ्रगन्तारः अरुषासः आरोचमानाः सबन्धवः समानएकएवबन्धुबन्धकोरुद्रोयेषांतेतादृशाः परस्परंबंधवः स्नेह- युक्तावा शूराभटाइव प्रयुधः प्रयोद्धारोवैरिभिःसह तादृशाः उतापिच प्रयुयुधुः प्रकर्षेण युध्यन्ते मर्याइव मनुष्यायथावर्धन्ते तथा सुवृ- धः सुष्ठुवर्धयितारोवर्धमानावा नरोनेतारोववृधुः वर्धन्ते एवं महात्मानः सूर्यस्यचक्षुस्तेजः समूहं मंडलंवा वृष्टिभिः प्रमिनन्ति प्रकर्षेण- हिंसन्ति आवृण्वन्तीत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४