मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६०, ऋक् १

संहिता

ईळे॑ अ॒ग्निं स्वव॑सं॒ नमो॑भिरि॒ह प्र॑स॒त्तो वि च॑यत्कृ॒तं नः॑ ।
रथै॑रिव॒ प्र भ॑रे वाज॒यद्भि॑ः प्रदक्षि॒णिन्म॒रुतां॒ स्तोम॑मृध्याम् ॥

पदपाठः

ईळे॑ । अ॒ग्निम् । सु॒ऽअव॑सम् । नमः॑ऽभिः । इ॒ह । प्र॒ऽस॒त्तः । वि । च॒य॒त् । कृ॒तम् । नः॒ ।
रथैः॑ऽइव । प्र । भ॒रे॒ । वा॒ज॒यत्ऽभिः॑ । प्र॒ऽद॒क्षि॒णित् । म॒रुता॑म् । स्तोम॑म् । ऋ॒ध्या॒म् ॥

सायणभाष्यम्

अहंश्यावाश्वेग्निं स्ववसं स्वायत्तरक्षणं नमोभिःस्तोत्रैः ईळे स्तौमि तत्स्तोत्रंकृतमिहेदानीं प्रसत्तः प्रसन्नः प्रकर्षेणयज्ञंप्राप्तोवासन् नोस्मदर्थं विचयत् विजानातु वाजयद्भिरन्नमिच्छद्भिः स्तोत्रैः रथैरिव रथैर्यथाभिमतंप्राप्नुवन्ति तद्वत् रंहणसाधनैः प्रभरे प्रकर्षेण संपाद- यामि अभिमतं प्रदक्षिणित् प्रादक्षिण्येनगच्छन् मरुतांस्तोमं स्तोत्रमृध्यांवर्धयेयम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५