मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६०, ऋक् २

संहिता

आ ये त॒स्थुः पृष॑तीषु श्रु॒तासु॑ सु॒खेषु॑ रु॒द्रा म॒रुतो॒ रथे॑षु ।
वना॑ चिदुग्रा जिहते॒ नि वो॑ भि॒या पृ॑थि॒वी चि॑द्रेजते॒ पर्व॑तश्चित् ॥

पदपाठः

आ । ये । त॒स्थुः । पृष॑तीषु । श्रु॒तासु॑ । सु॒ऽखेषु॑ । रु॒द्राः । म॒रुतः॑ । रथे॑षु ।
वना॑ । चि॒त् । उ॒ग्राः॒ । जि॒ह॒ते॒ । नि । वः॒ । भि॒या । पृ॒थि॒वी । चि॒त् । रे॒ज॒ते॒ । पर्व॑तः । चि॒त् ॥

सायणभाष्यम्

येमरुतोरुद्रारुद्रपुत्राः आतस्थुः आतिष्ठन्ति पृषतीषु मरुतांवाहनेषु श्रुतासु श्रान्तासु प्रसिद्धासुवा सुखेषु खमाकाशंछिद्रं शोभनरथाक्ष- द्वारेषु रथेषु रथानातस्थुरातिष्ठन्ति हेउग्राः उदूर्णबलामरुतोयूयं यदा रथमारूढाःस्थ तदानींवनाचित् वनान्यपिनिजिहतेन्यग्गछन्ति वो- युष्माकं भिया भीत्या पृथिवीचित् पृथिव्यपिरेजते पर्वतश्चित् पर्वतोपिरेजते कंपते उत्तरार्धः प्रत्यक्षकृतः पूर्वार्धेयएवमकुर्वन् तेषांस्तोम- मृध्यामितिपूर्वत्रान्वयः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५