मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६०, ऋक् ३

संहिता

पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त्सानु॑ रेजत स्व॒ने वः॑ ।
यत्क्रीळ॑थ मरुत ऋष्टि॒मन्त॒ आप॑ इव स॒ध्र्य॑ञ्चो धवध्वे ॥

पदपाठः

पर्व॑तः । चि॒त् । महि॑ । वृ॒द्धः । बि॒भा॒य॒ । दि॒वः । चि॒त् । सानु॑ । रे॒ज॒त॒ । स्व॒ने । वः॒ ।
यत् । क्रीळ॑थ । म॒रु॒तः॒ । ऋ॒ष्टि॒ऽमन्तः॑ । आपः॑ऽइव । स॒ध्र्य॑ञ्चः । ध॒व॒ध्वे॒ ॥

सायणभाष्यम्

हेमरुतः वोयुष्माकं स्वनेभयंकरशब्देसति पर्वतश्चित् पर्वतोपि महि महान् वृद्धःसन्नपि बिभाय बिभेति दिवश्चित् अन्तरिक्षस्यापि सानुसमुच्छ्रितःप्रदेशोरेजत कंपते यद्यदा क्रीडथ हेमरुतोयूयं ऋष्टिमन्तआयुधवन्तःसन्तः तदा आपइव उदकानीव सध्र्यंचः सहांचनाः धवध्वे धावध्वे गच्छथ ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५