मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६०, ऋक् ४

संहिता

व॒रा इ॒वेद्रै॑व॒तासो॒ हिर॑ण्यैर॒भि स्व॒धाभि॑स्त॒न्व॑ः पिपिश्रे ।
श्रि॒ये श्रेयां॑सस्त॒वसो॒ रथे॑षु स॒त्रा महां॑सि चक्रिरे त॒नूषु॑ ॥

पदपाठः

व॒राःऽइ॑व । इत् । रै॒व॒तासः॑ । हिर॑ण्यैः । अ॒भि । स्व॒धाभिः॑ । त॒न्वः॑ । पि॒पि॒श्रे॒ ।
श्रि॒ये । श्रेयां॑सः । त॒वसः॑ । रथे॑षु । स॒त्रा । महां॑सि । च॒क्रि॒रे॒ । त॒नूषु॑ ॥

सायणभाष्यम्

वराइव विवाहयोग्यायुवानइव तेयथा रैवता सोधनवन्तोहिरण्यैः हिरण्यमयैराभरणविशेषैः स्वधाभिरुदकैश्च तन्वः स्वीयानिशरी- राणि अभिपिपिश्रे संयोजयन्ति अलंकुर्वन्ति तद्वदेतेमरुतोपि रैवतासः धनवन्तः हिरण्यैर्हिरण्यस्थानीयैः विद्युदाख्यैराभरणैः स्वधाभिश्च तन्वः स्वीयानिशरीराणि पिपिश्रे श्रिये शोभायै श्रेयांसः श्रेष्ठाः तवसोबलवन्तोमरुतोरथेषु सत्रा सत्यं सहवा तनूषु महांसि चक्रिरे कृत- वन्तः सर्वाभरणैरुदकैश्चोपेताः रथानधिष्ठाय शरीरेषु तेजांस्यधारयन्नित्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५