मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६०, ऋक् ८

संहिता

अग्ने॑ म॒रुद्भि॑ः शु॒भय॑द्भि॒रृक्व॑भि॒ः सोमं॑ पिब मन्दसा॒नो ग॑ण॒श्रिभि॑ः ।
पा॒व॒केभि॑र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा॑नर प्र॒दिवा॑ के॒तुना॑ स॒जूः ॥

पदपाठः

अग्ने॑ । म॒रुत्ऽभिः॑ । शु॒भय॑त्ऽभिः । ऋक्व॑ऽभिः । सोम॑म् । पि॒ब॒ । म॒न्द॒सा॒नः । ग॒ण॒श्रिऽभिः॑ ।
पा॒व॒केभिः॑ । वि॒श्व॒म्ऽइ॒न्वेभिः॑ । आ॒युऽभिः॑ । वैश्वा॑नर । प्र॒ऽदिवा॑ । के॒तुना॑ । स॒ऽजूः ॥

सायणभाष्यम्

हेअग्ने मरुद्भिःसह मन्दसानःसन् सोमंपिब कीदृशैर्मरुद्भिः शुभयद्भिः शोभमानैः अन्यान् शोभयद्भिर्वा ऋक्वभिः स्तुत्यैः गणश्रिभिः गणभावमाश्रयद्भिः पावकेभिः शॊधकैः विश्वमिन्वेभिः विश्वंवृष्ट्याप्रीणयद्भिः आयुभिः आयुष्मद्भिः हेवैश्वानर विश्वनरहिताग्ने प्रदिवा पुराणेन केतुना ज्वालापुंजेन सजूः सहितः ॥ ८ ॥

केष्ठानरइत्येकोनविंशत्यृचंपंचमंसूक्तं अत्रानुक्रमणिका-कैष्ठैकोनागायत्रंश्यावाश्वोत्रवैददश्वीतरंतपुरुमीह्ळौदाल्भ्यंरथवीतिंमरुतश्चदा- नतुष्टःप्रशशंसबुध्वाचतरन्तमहिषींशशीयसींपंचम्यनुष्टुम्नवमीसतोबृहतीति । श्यावाश्वऋषिः पंचम्यनुष्टुप् नवमीसतोबृहती शिष्टागा- यत्र्यः आद्याश्चतस्रोमरुद्देवताकाः सनत्सेत्यादीनांचतसृणांशशीयसीनामतरन्तस्यराज्ञोभार्यादेवता उतमेरपदित्यस्यावैददश्विःपुरुमी- ह्ळोदेवता योमेधेनूनामित्यस्यावैददश्विस्तरन्तोराजादेवता यंईवहन्तइत्याद्याःषण्मारुत्यः एतंमइत्यस्यतृचस्यदाल्भ्योरथवीतिर्नामरा- जादेवता विनियोगोलैंगिकः । अत्राश्चर्यंपुरावृत्तमाहुरागमपारगाः ॥ अर्चनानाःपुरात्रेयोदाल्भ्येनरथवी तिना ॥ १ ॥ आर्त्विज्यायवृतोयज्ञे- विततेहौत्रआस्थितः ॥ रथवीतिसुतांकन्यांददर्शपितुरंति के ॥ २ ॥ ययाचेस्व्कुमारायश्यावाश्वायचतांसुतां ॥ सप्रदानमनाभार्यामपृच्छ- त्किंप्रयच्छसि ॥ ३ ॥ इतिपृष्टापुनःप्राहकथमस्मैप्रदास्यसि ॥ इतःपूर्वंसुतादत्तानासीदनृषयेक्वचित् ॥ ४ ॥ तत्तथैवेतिनिश्चित्यप्रत्याचष्टार्चना- नसं ॥ श्यावाश्वःसंस्थितेयज्ञेतेनराज्ञानिराकृतः ॥ ५ ॥ तत्प्रत्याशान्वितोविप्रस्तपस्तेपेसुदारुणं ॥ ब्रह्मचर्यरतःशान्तोभिक्षार्थंपर्यटन्द्विजः ॥ ६ ॥ तरन्तमहिषींसाध्वींबिभिक्षेसौशशीयसीं ॥ सासंप्राप्यान्तिकंपत्युःप्रोवाचागतवामृषिः ॥ ७ ॥ इत्युक्तो नृपतिर्भार्यांप्रत्याहैनंप्रपूजय ॥ सानुज्ञातागवांयूथंप्रादादाभरणानिच ॥ ८ ॥ तरन्तोपिपुनस्तस्मैप्रादाद्धनमपेक्षितं ॥ दत्त्वाचपुरुमीह्ळस्यस्वानुजस्यान्तिकंप्रति ॥ ९ ॥ प्रेरयामासतमृषिंसो पित्वांमानयिष्यति ॥ १० ॥ तथेतिराज्ञोवचनंशम्यतद्भार्ययादर्शितसर्वमार्गः ॥ गच्छन् शनैरर्धपथेमरुद्गणान् समान- रूपान्सदिदृक्षयागतान् ॥ ११ ॥ विलोक्यविप्रःसभयः प्रणम्यकृतांजलिः कंटकितांगसंघः ॥ तुष्टावदृष्टान्मरुतोविशिष्टैरर्थैर्वचोभिःपरितुष्ट- चित्तः ॥ १२ ॥ संप्राप्य सर्वंस्वमनीषितंतदामरुद्गणेभ्योमुदितात्मवद्भ्यः ॥ १३ ॥ तदाभवदृषिःसूक्तद्रष्टाश्यावाश्वनामकः ॥ पश्चात्पुनर्गृहंग- त्वाभूयोलब्ध्वागवांशतं ॥ १४ ॥ दाल्भ्योमंत्रदृशेराज्ञाचोदितःस्वसुतांददौ ॥ पुरुमीह्ळस्तरन्तश्चतद्भार्याचशशीयसी ॥ १५ ॥ दाल्भ्योयोर- थवीत्याख्यः सप्तयेमरुतांगणाः ॥ तेतस्मैयद्ददुस्तुष्टास्तत्केष्ठेत्यत्रवर्ण्यते ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५