मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६१, ऋक् २

संहिता

क्व१॒॑ वोऽश्वा॒ः क्वा॒३॒॑भीश॑वः क॒थं शे॑क क॒था य॑य ।
पृ॒ष्ठे सदो॑ न॒सोर्यमः॑ ॥

पदपाठः

क्व॑ । वः॒ । अश्वाः॑ । क्व॑ । अ॒भीश॑वः । क॒थम् । शे॒क॒ । क॒था । य॒य॒ ।
पृ॒ष्ठे । सदः॑ । न॒सोः । यमः॑ ॥

सायणभाष्यम्

हेमरुतोवोयुष्मकंअश्वाः क्व कुत्रत्याः क्वचाभीशवोबन्धनरज्जवः कथंच शेक शीघ्रंगन्तुंशक्ताभवथ कथा कथं यय याताःस्थ पृष्ठे अश्वा- नांपृष्ठदेशेसदः सीदति तिष्ठेत्यत्रेतिसदः पर्याणं तत्रदृश्यते तथा नसोर्नासिकयोर्यमोनियमिता पलायनप्रतिबन्धकारीपशोर्नासिकयोर्दृश्यते तस्मादश्वादिलिंगैः कुत्रापित्वरितगमनाइव प्रतिभान्ति केयूयमितिदेवत्वमनवधार्याहा ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६