मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६१, ऋक् ९

संहिता

उ॒त मे॑ऽरपद्युव॒तिर्म॑म॒न्दुषी॒ प्रति॑ श्या॒वाय॑ वर्त॒निम् ।
वि रोहि॑ता पुरुमी॒ळ्हाय॑ येमतु॒र्विप्रा॑य दी॒र्घय॑शसे ॥

पदपाठः

उ॒त । मे॒ । अ॒र॒प॒त् । यु॒व॒तिः । म॒म॒न्दुषी॑ । प्रति॑ । श्या॒वाय॑ । व॒र्त॒निम् ।
वि । रोहि॑ता । पु॒रु॒ऽमी॒ळ्हाय॑ । ये॒म॒तुः॒ । विप्रा॑य । दी॒र्घऽय॑शसे ॥

सायणभाष्यम्

उतापिच श्यावाय श्यावाश्वाय मह्यं अरपत् अलपत् स्पष्टमाचष्ट किं वर्तनिंमार्गं कीदृशीसायुवतिः प्रवृत्तयौवना प्रतिममन्दुषीप्रति- मोदमाना क्स्मै दीर्घयशसे प्रभूतान्नाय प्रभूतकीर्तयेवा पुरुमीह्ळायैतन्नामकाय प्रभूतगृहाय क्रियार्थोपपदस्यचकर्मणिस्थानिनइतिचतुर्थी पुरुमीह्ळंप्राप्तुमित्यर्थः तदर्थंरोहितारोहितवर्णावश्वौशशीयस्यादत्तौ वियेमतुः विशेषेणयमयतुः धृतवन्तावित्यर्थः यःअशाभ्यांयुक्तेरथे स्थापयित्वा पुरुमीह्ळगृहस्यमार्गं प्रदर्शयन्ती पुरतोगता सैवपुंसोभवति वस्यसीतिपूर्वत्रसंबन्धः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७