मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६२, ऋक् ३

संहिता

अधा॑रयतं पृथि॒वीमु॒त द्यां मित्र॑राजाना वरुणा॒ महो॑भिः ।
व॒र्धय॑त॒मोष॑धी॒ः पिन्व॑तं॒ गा अव॑ वृ॒ष्टिं सृ॑जतं जीरदानू ॥

पदपाठः

अधा॑रयतम् । पृ॒थि॒वीम् । उ॒त । द्याम् । मित्र॑ऽराजाना । व॒रु॒णा॒ । महः॑ऽभिः ।
व॒र्धय॑तम् । ओष॑धीः । पिन्व॑तम् । गाः । अव॑ । वृ॒ष्टिम् । सृ॒ज॒त॒म् । जी॒र॒दा॒नू॒ इति॑ जीरऽदानू ॥

सायणभाष्यम्

हेमित्रराजाना मित्रभूताःस्तोतारोराजानःस्वामिनईश्वराभवन्ति ययोःसकाशात् तौ मित्रराजानौ हेवरुणा प्रतियोग्यपेक्षयाद्विवचनं अत्रपादादित्वादाद्यंपदंननिहन्यते वरुणेत्येतस्यतु आमन्त्रितंपूर्वमविद्यमानवदितिपूर्वस्याविद्यमानवत्त्वेनास्यैवपादादित्वादनिघातत्वंयु- क्तं नैवंभवति नामंत्रितेसमानाधिकरणेसामान्यवचनमिति वरुणेत्येतस्यामंत्रितस्मानाधिकरणत्वादस्यचसामान्यवचनत्वादविद्यमानव- त्त्वाभावेन पादादित्वाभावादुत्तरस्यनिघातत्वंयुक्तं हे देवौ महोभिस्तेजोभिः स्वसामर्थ्यैः पृथिवीं उतापिच द्यां अधारयतं हेदेवौ युवामो- षधीर्वर्धयतं वृष्ठिप्रेरणेन गाःपिन्वतं गवाश्वादीन्वर्धयतं तदर्थं वृष्टिमवसूजतं अवाङ्मुखंप्रेरयतं हेजीरदानूशिप्रदानौ ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०