मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६२, ऋक् ५

संहिता

अनु॑ श्रु॒ताम॒मतिं॒ वर्ध॑दु॒र्वीं ब॒र्हिरि॑व॒ यजु॑षा॒ रक्ष॑माणा ।
नम॑स्वन्ता धृतद॒क्षाधि॒ गर्ते॒ मित्रासा॑थे वरु॒णेळा॑स्व॒न्तः ॥

पदपाठः

अनु॑ । श्रु॒ताम् । अ॒मति॑म् । वर्ध॑त् । उ॒र्वीम् । ब॒र्हिःऽइ॑व । यजु॑षा । रक्ष॑माणा ।
नम॑स्वन्ता । धृ॒त॒ऽद॒क्षा॒ । अधि॑ । गर्ते॑ । मित्र॑ । आसा॑थे॒ इति॑ । व॒रु॒ण॒ । इळा॑सु । अ॒न्तरिति॑ ॥

सायणभाष्यम्

श्रुतां विश्रुतां अमतिं रूपनामैतत् शरीरदीप्तिमित्यर्थः तामनुवर्धत् अनुवर्धयन्तौ बर्हिर्यज्ञः सइव सयथा यजुषामंत्रेणरक्ष्यते तद्वदुर्वी- रक्षमाणा पालयन्तौ नमस्वन्ता अन्नवन्तौ हेधृतदक्षा आत्तबलौ हेमित्र हेवरुण हेमित्रावरुणौ युवामुक्तलक्षणौसन्तौ इळासु यागभूमिषु अंतर्मध्ये गर्तेधिरथे आसाथे उपविशथः रथोपिगर्तउच्यतइतियास्कः । आरोहथोवरुनमित्रगर्तमिति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०