मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६२, ऋक् ८

संहिता

हिर॑ण्यरूपमु॒षसो॒ व्यु॑ष्टा॒वयः॑स्थूण॒मुदि॑ता॒ सूर्य॑स्य ।
आ रो॑हथो वरुण मित्र॒ गर्त॒मत॑श्चक्षाथे॒ अदि॑तिं॒ दितिं॑ च ॥

पदपाठः

हिर॑ण्यऽरूपम् । उ॒षसः॑ । विऽउ॑ष्टौ । अयः॑ऽस्थूणम् । उत्ऽइ॑ता । सूर्य॑स्य ।
आ । रो॒ह॒थः॒ । व॒रु॒ण॒ । मि॒त्र॒ । गर्त॑म् । अतः॑ । च॒क्षा॒थे॒ इति॑ । अदि॑तिम् । दिति॑म् । च॒ ॥

सायणभाष्यम्

उषसोव्युष्टौ प्रातःकालेइत्यर्थः सूर्यस्य उदिता उदितौ उदये सएवकालः प्रकारान्तरेणोक्तः तस्मिन्काले हिरण्यरूपं अयःस्थूणं अयो- मयशंकुं गर्तं रथं हेवरुण हेमित्र युवां गर्तमारोहथः यज्ञंप्राप्तुं अतः अस्माद्धेतोः अदितिमखंडनीयांभूमिं दितिंखंडितां प्रजादिकांच चक्षाथे पश्यथः ॥ ८ ॥ दाक्षयणयज्ञेयद्वंहिष्ठमितिनवमी । द्वितीयस्याममावास्यायां मैत्रावरुणस्यहविषोयाज्या सूत्रितंच-आनोमित्रावरुणायद्वंहिष्ठंनातिवि- धेसुदानूइति । मैत्रावरुणेपशौहविषएषैवयाज्या सूत्रितंच-यद्बंहिष्ठंनातिविधेसुदानूहिरण्यगर्भः समवर्तताग्रइति । तत्पाठस्तु ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१