मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६३, ऋक् ६

संहिता

वाचं॒ सु मि॑त्रावरुणा॒विरा॑वतीं प॒र्जन्य॑श्चि॒त्रां व॑दति॒ त्विषी॑मतीम् ।
अ॒भ्रा व॑सत म॒रुत॒ः सु मा॒यया॒ द्यां व॑र्षयतमरु॒णाम॑रे॒पस॑म् ॥

पदपाठः

वाच॑म् । सु । मि॒त्रा॒व॒रु॒णौ॒ । इरा॑ऽवतीम् । प॒र्जन्यः॑ । चि॒त्राम् । व॒द॒ति॒ । त्विषि॑ऽमतीम् ।
अ॒भ्रा । व॒स॒त॒ । म॒रुतः॑ । सु । मा॒यया॑ । द्याम् । व॒र्ष॒य॒त॒म् । अ॒रु॒णाम् । अ॒रे॒पस॑म् ॥

सायणभाष्यम्

हेमित्रावरुणौ युवयोरनुग्रहात् पर्जन्योमेघः सु सुष्ठु इरावतीं अन्नवतीमन्नसाधिकां चित्रां चायनीयां त्विषीमतीं दीप्तिमतीं वाचं गर्ज- नशब्दं वदति शब्दयति वृष्ट्यर्थं मरुतश्चाभ्रा अभ्राणि मेघान् सु सुष्ठु वसत आच्छादयन्ति मायया स्वप्रज्ञया युवांच पर्जन्येनमरुद्भिश्च् सहारुणामरुणवर्णां अरेपसं अपापां वृष्ट्याविघातिनीं द्यां वर्षयतम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः