मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६६, ऋक् ४

संहिता

अधा॒ हि काव्या॑ यु॒वं दक्ष॑स्य पू॒र्भिर॑द्भुता ।
नि के॒तुना॒ जना॑नां चि॒केथे॑ पूतदक्षसा ॥

पदपाठः

अध॑ । हि । काव्या॑ । यु॒वम् । दक्ष॑स्य । पूः॒ऽभिः । अ॒द्भु॒ता॒ ।
नि । के॒तुना॑ । जना॑नाम् । चि॒केथे॒ इति॑ । पू॒त॒ऽद॒क्ष॒सा॒ ॥

सायणभाष्यम्

अध अपिच हिप्रसिद्धौ काव्या स्तुत्यौ युवं युवां दक्षस्य प्रवृद्धस्य ममपूर्भिः पूरकैः स्तवैः हेअद्भुता महान्तौ आश्चर्यभूतौसन्तौ केतु- ना प्रज्ञानेनअनुकूलेनमनसा जनानां यजमानानामित्यर्थः स्तोत्रंनिचिकेथे नितरांजानीथः हेपूतदक्षसा शुद्धबलौयुवां ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः