मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६८, ऋक् ४

संहिता

ऋ॒तमृ॒तेन॒ सप॑न्तेषि॒रं दक्ष॑माशाते ।
अ॒द्रुहा॑ दे॒वौ व॑र्धेते ॥

पदपाठः

ऋ॒तम् । ऋ॒तेन॑ । सप॑न्ता । इ॒षि॒रम् । दक्ष॑म् । आ॒शा॒ते॒ इति॑ ।
अ॒द्रुहा॑ । दे॒वौ । व॒र्धे॒ते॒ इति॑ ॥

सायणभाष्यम्

ऋतेनोदकेननिमित्तेन ऋतं यज्ञं सपन्ता स्पृशन्तौ इषिरं एषणवन्तं दक्षं प्रवृद्धं यजमानं हविर्वा आशाते व्याप्नुतः अद्रुहा अद्रोग्धारौ देवौ मित्रावरुणौ युवांवर्धेते प्रवृद्धौभवतः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः