मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६८, ऋक् ५

संहिता

वृ॒ष्टिद्या॑वा री॒त्या॑पे॒षस्पती॒ दानु॑मत्याः ।
बृ॒हन्तं॒ गर्त॑माशाते ॥

पदपाठः

वृ॒ष्टिऽद्या॑वा । री॒तिऽआ॑पा । इ॒षः । पती॒ इति॑ । दानु॑ऽमत्याः ।
बृ॒हन्त॑म् । गर्त॑म् । आ॒शा॒ते॒ इति॑ ॥

सायणभाष्यम्

वृष्टिद्यावा वृष्ट्यर्थाद्यौःस्तुतिर्ययोस्तौवृष्टिद्यावा अथवा वृष्टिर्वर्षिका द्यौरन्तरिक्षं याभ्यां तौ तादृशौ रीत्यापा रीगतिरेषणयोः रीतिः प्राप्तिः सैवआपाआप्तिरभिमतप्राप्तिर्ययोस्तौ तादृशौ इषोन्नस्य पती स्वामिनौ वृष्टिप्रदत्वात् स्वामित्वं दानुमत्याः दानवत्याः दा- तृषुउचितायाइत्यर्थः एतदिड्विशेषणं एवंमहानुभावौ बृहन्तं महान्तं गर्तं रथमाशातेव्याप्नुतः अधितिष्ठतोयागार्थं ॥ ५ ॥

त्रीरोचनेतिचतुरृचंत्रयोदशंसूक्तं उरुचक्रिर्नामात्रेयऋषिः त्रिष्टुप् मित्रावरुणौदेवता अनुक्रम्यतेच-त्रीरोचनाचतुष्कमुरुचक्रिरिति । विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः