मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७३, ऋक् १

संहिता

यद॒द्य स्थः प॑रा॒वति॒ यद॑र्वा॒वत्य॑श्विना ।
यद्वा॑ पु॒रू पु॑रुभुजा॒ यद॒न्तरि॑क्ष॒ आ ग॑तम् ॥

पदपाठः

यत् । अ॒द्य । स्थः॒ । प॒रा॒ऽवति॑ । यत् । अ॒र्वा॒ऽवति॑ । अ॒श्वि॒ना॒ ।
यत् । वा॒ । पु॒रु । पु॒रु॒ऽभु॒जा॒ । यत् । अ॒न्तरि॑क्षे । आ । ग॒त॒म् ॥

सायणभाष्यम्

हेपुरुभुजा बहुषु यज्ञेषु भोक्तारौ अधिकं रक्षितारौवा हेअश्विना अश्विनौ यद्यदि अद्यास्मिन् काले परावति अत्यंतंदूरेदेशे द्युलोके स्थोभवथः यद्वा अर्वावति अरणवति गन्तुंशक्ये प्रदेशे अन्तिकेस्थः यत् यदिवा अथवा पुरु बहु प्रदेशेषुस्थः यद्यदि अन्तरिक्षेस्थः तस्मा- त्सर्वस्मादद्यागतं आगच्छतम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११