मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७३, ऋक् ३

संहिता

ई॒र्मान्यद्वपु॑षे॒ वपु॑श्च॒क्रं रथ॑स्य येमथुः ।
पर्य॒न्या नाहु॑षा यु॒गा म॒ह्ना रजां॑सि दीयथः ॥

पदपाठः

ई॒र्मा । अ॒न्यत् । वपु॑षे । वपुः॑ । च॒क्रम् । रथ॑स्य । ये॒म॒थुः॒ ।
परि॑ । अ॒न्या । नाहु॑षा । यु॒गा । म॒ह्ना । रजां॑सि । दी॒य॒थः॒ ॥

सायणभाष्यम्

हेअश्विनौ युवां रथस्ययुष्मदीयस्यान्यच्चक्रं ईर्मा अर्तेरीर्मे तिरूपं गंतर्यादित्ये वपुषे तस्यशोभायै वपूर्वपुष्मत् तेजोवत् चक्रंयेमथुः नियमितवन्तौस्थः अन्या अन्येनचक्रेण मह्ना महत्त्वेन स्व्सामर्थ्येन नाहुषायुगा नहुषामनुष्याः तेषांयुगा युगोपलक्षितान् कालान् प्रात- रादिसवनान् अहोरात्रादिकालान्वा रजांसि लोकांश्च परिगच्छथः परिदीयथः न्यघ्न्यस्यमूर्धनिचक्रंरथस्ययेमथुरित्युक्तम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११