मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७३, ऋक् ४

संहिता

तदू॒ षु वा॑मे॒ना कृ॒तं विश्वा॒ यद्वा॒मनु॒ ष्टवे॑ ।
नाना॑ जा॒ताव॑रे॒पसा॒ सम॒स्मे बन्धु॒मेय॑थुः ॥

पदपाठः

तत् । ऊं॒ इति॑ । सु । वा॒म् । ए॒ना । कृ॒तम् । विश्वा॑ । यत् । वा॒म् । अनु॑ । स्तवे॑ ।
नाना॑ । जा॒तौ । अ॒रे॒पसा॑ । सम् । अ॒स्मे इति॑ । बन्धु॑म् । आ । ई॒य॒थुः॒ ॥

सायणभाष्यम्

हेविश्वाव्याप्तौ यत् येनस्तोत्रेणवां युवां अनुष्टवे अनुस्तवे तदु उइतिपूरणः एना अनेनपौरेण सु सुष्टुवां युवाभ्यां कृतं संपादितंभवतु नाना पृथगेव जातौ समृद्धौ अरेपसा अपापौ अस्मे अस्मभ्यं बन्धुं अन्नंधनंवा समेयथुः सम्यग्गमयथः सम्यक् प्रयच्छतमित्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११