मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७४, ऋक् १

संहिता

कूष्ठो॑ देवावश्विना॒द्या दि॒वो म॑नावसू ।
तच्छ्र॑वथो वृषण्वसू॒ अत्रि॑र्वा॒मा वि॑वासति ॥

पदपाठः

कूऽस्थः॑ । दे॒वौ॒ । अ॒श्वि॒ना॒ । अ॒द्य । दि॒वः । म॒ना॒व॒सू॒ इति॑ ।
तत् । श्र॒व॒थः॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । अत्रिः॑ । वा॒म् । आ । वि॒वा॒स॒ति॒ ॥

सायणभाष्यम्

हेदेवौ हेमनावसू स्तुतिधनौ श्रृणुथःअश्विनाद्यास्मिन्यागदिनेदिवोद्युलोकादागत्य कूष्ठः व्यत्ययेनैकवचनं कौ भूमौ तिष्ठन्तौ सन्तौ तत्स्तोत्रं श्रवथः हेवृषण्वसू वर्षकधनौवां अत्रिरत्रेःपुत्रः आविवासति सर्वतःपरिचरति अथवा कुइत्यस्यनिपातस्यस्थइत्याख्यातेन सहेति- योगविभागात्समासः ऎकस्वर्यंचाध्येतृसमयप्राप्तं अराइवेत्यत्र यथाइवशब्दःकूचिज्जायते कूचित्सन्तमित्यादिवदत्रापिद्रष्टव्यं क्वस्थितौभ- वथः अत्रिर्युवांस्तौति तंश्रृणुथेत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३