मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७४, ऋक् ६

संहिता

अस्ति॒ हि वा॑मि॒ह स्तो॒ता स्मसि॑ वां सं॒दृशि॑ श्रि॒ये ।
नू श्रु॒तं म॒ आ ग॑त॒मवो॑भिर्वाजिनीवसू ॥

पदपाठः

अस्ति॑ । हि । वा॒म् । इ॒ह । स्तो॒ता । स्मसि॑ । वा॒म् । स॒म्ऽदृशि॑ । श्रि॒ये ।
नु । श्रु॒तम् । मे॒ । आ । ग॒त॒म् । अवः॑ऽभिः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥

सायणभाष्यम्

हेअश्विनौ वांस्तोता पौरोस्तिहि वर्ततेखलु हेदेवौ वांसंदृशि संदर्शने संनिधाने स्मसि स्मः भवेम किमर्थं नु अद्य मदीयमाह्वानं श्रुतं श्रृणुतं श्रुत्वा आगतं आगच्छातं किंतूष्णी नेत्याह अवोभीरक्षणैःसह वाजिनीवसू अन्नवसू ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४