मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७४, ऋक् ७

संहिता

को वा॑म॒द्य पु॑रू॒णामा व॑व्ने॒ मर्त्या॑नाम् ।
को विप्रो॑ विप्रवाहसा॒ को य॒ज्ञैर्वा॑जिनीवसू ॥

पदपाठः

कः । वा॒म् । अ॒द्य । पु॒रू॒णाम् । आ । व॒व्ने॒ । मर्त्या॑नाम् ।
कः । विप्रः॑ । वि॒प्र॒ऽवा॒ह॒सा॒ । कः । य॒ज्ञैः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥

सायणभाष्यम्

हेवाजिनीवसू अन्नवसू वांयुवां अद्यास्मिन् दिने पुरूणां मर्त्यानांमध्ये कआवव्रे सर्वतोभजति हेविप्रवाहसा विप्रैर्मेधाविभिर्वहनीयौ कोविप्रोमेधावीवव्ने कोयजमानोयज्ञैर्वव्ने अत्यन्तविलंबमसहमानःसन् पुनः पुनर्ब्रूते ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४