मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७४, ऋक् १०

संहिता

अश्वि॑ना॒ यद्ध॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हव॑म् ।
वस्वी॑रू॒ षु वां॒ भुजः॑ पृ॒ञ्चन्ति॒ सु वां॒ पृचः॑ ॥

पदपाठः

अश्वि॑ना । यत् । ह॒ । कर्हि॑ । चि॒त् । शु॒श्रु॒यात॑म् । इ॒मम् । हव॑म् ।
वस्वीः॑ । ऊं॒ इति॑ । सु । वा॒म् । भुजः॑ । पृ॒ञ्चन्ति॑ । सु । वा॒म् । पृचः॑ ॥

सायणभाष्यम्

हेअश्विना युवां यद्ध यत्र कर्हिचित् स्थितवन्तौभवथः तत्र मे हवं आह्वानं शुश्रुयातं श्रृणुतं श्रुत्वागच्छतमित्यर्थः किमर्थमिति उच्यते वस्वीः प्रशस्याः भुजोधनानि हविर्लक्षणानि सु सुष्ठु वांयुवांपृंचन्ति मिश्रयन्तिप्राप्नुवन्ति उइतिपूरणः कीदृश्योभुजः वां युवां सु सुष्ठु पृचः संपर्चनाः युवांप्राप्तुं कामयमानाइत्यर्थः अथवा सुपृचः सुसंपर्चनाः स्तोतारोवस्वीर्भुजोवां सुष्ठुपृंचन्ति संपर्चयन्ति ॥ १० ॥

प्रतिप्रियतममितिनवर्चंतृतीयंसूक्तं अवस्युर्नामात्रेयऋषिः पंक्तिश्छन्दः अश्विनौदेवता अनुक्रान्तंच-प्रतिनवावस्युःपांक्तमिति । प्रात- रनुवाकेआश्विनेक्रतौपांक्तेछन्दसि आश्विनशस्त्रेचेदंसूक्तं प्रतिप्रियतममितिपांक्तमितिहिसूत्रितम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४