मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७७, ऋक् ४

संहिता

यो भूयि॑ष्ठं॒ नास॑त्याभ्यां वि॒वेष॒ चनि॑ष्ठं पि॒त्वो रर॑ते विभा॒गे ।
स तो॒कम॑स्य पीपर॒च्छमी॑भि॒रनू॑र्ध्वभास॒ः सद॒मित्तु॑तुर्यात् ॥

पदपाठः

यः । भूयि॑ष्ठम् । नास॑त्याभ्याम् । वि॒वेष॑ । चनि॑ष्ठम् । पि॒त्वः । रर॑ते । वि॒ऽभा॒गे ।
सः । तो॒कम् । अ॒स्य॒ । पी॒प॒र॒त् । शमी॑भिः । अनू॑र्ध्वऽभासः । सद॑म् । इत् । तु॒तु॒र्या॒त् ॥

सायणभाष्यम्

योयजमानोविभागेहविर्विभागवतियागे नासत्याभ्यामश्विभ्यां भूयिष्ठं चनिष्ठं चनइत्यन्ननाम बह्वन्नकर्म विवेष करोति पित्वः कर्म- णिषष्ठी अन्नंच ररते ददाति सयजमानोस्यात्मनएवतोकंपुत्रं पीपरत् पालयेत् शमीभिः कर्मभिः अनूर्ध्वभासः अनुन्नतेजस्कान् यद्वोर्ध्वभा- सःअग्नयः अग्निरहितानयष्ठॄन् सदमित् सदैव तुतुर्यात् हिंस्यात् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८