मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८०, ऋक् ५

संहिता

ए॒षा शु॒भ्रा न त॒न्वो॑ विदा॒नोर्ध्वेव॑ स्ना॒ती दृ॒शये॑ नो अस्थात् ।
अप॒ द्वेषो॒ बाध॑माना॒ तमां॑स्यु॒षा दि॒वो दु॑हि॒ता ज्योति॒षागा॑त् ॥

पदपाठः

ए॒षा । शु॒भ्रा । न । त॒न्वः॑ । वि॒दा॒ना । ऊ॒र्ध्वाऽइ॑व । स्ना॒ती । दृ॒शये॑ । नः॒ । अ॒स्था॒त् ।
अप॑ । द्वेषः॑ । बाध॑माना । तमां॑सि । उ॒षाः । दि॒वः । दु॒हि॒ता । ज्योति॑षा । आ । अ॒गा॒त् ॥

सायणभाष्यम्

एषोषः शुभ्रान शुभ्रवर्णानिर्मलास्वलंकृतायोषिदिव तन्वोगानि विदाना प्रज्ञापयन्ती स्नाती स्नानंकुर्वाणा ऊर्ध्वेव उन्नतेव स्नानादुत्ति- ष्ठन्तीव नोस्मदर्थं अस्माकंपुरतोवा द्रुशये सर्वेषांदर्शनायउदस्थात् पूर्वस्यांदिश्युत्तिष्ठति किंकुर्वन्ती द्वेषोद्वेष्याणि तमांस्यपबाधमाना दिवोदुहितोषाः ति ज्यातिषा तेजसा सहागादागच्छति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३