मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८२, ऋक् २

संहिता

अस्य॒ हि स्वय॑शस्तरं सवि॒तुः कच्च॒न प्रि॒यम् ।
न मि॒नन्ति॑ स्व॒राज्य॑म् ॥

पदपाठः

अस्य॑ । हि । स्वय॑शःऽतरम् । स॒वि॒तुः । कत् । च॒न । प्रि॒यम् ।
न । मि॒नन्ति॑ । स्व॒ऽराज्य॑म् ॥

सायणभाष्यम्

अस्य सवितुः स्वयशस्तरं स्वयमसाधारणं यशोयस्यातिशयेनभवतितत् तादृशं प्रियं सर्वेषांप्रियभूतं स्वराज्यं स्वयमेवराजमानत्वमै- श्वर्यं कच्चन केचिदपिअसुरादयोनमिनन्ति नहिंसन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५