मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८२, ऋक् ४

संहिता

अ॒द्या नो॑ देव सवितः प्र॒जाव॑त्सावी॒ः सौभ॑गम् ।
परा॑ दु॒ष्ष्वप्न्यं॑ सुव ॥

पदपाठः

अ॒द्य । नः॒ । दे॒व॒ । स॒वि॒त॒रिति॑ । प्र॒जाऽव॑त् । सा॒वीः॒ । सौभ॑गम् ।
परा॑ । दुः॒ऽस्वप्न्य॑म् । सु॒व॒ ॥

सायणभाष्यम्

हेसवितर्देव नोस्मभ्यमद्यास्मिन्यागदिने प्रजावत्पुत्राद्युपेतं सौभगं धनं सावीः प्रेरय दुःस्वप्न्यं दुःस्वप्नंदुःस्वप्नवद्दुः खकरंदारिद्भ्यं परासुव दूरेप्रेरय ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५