मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८२, ऋक् ६

संहिता

अना॑गसो॒ अदि॑तये दे॒वस्य॑ सवि॒तुः स॒वे ।
विश्वा॑ वा॒मानि॑ धीमहि ॥

पदपाठः

अना॑गसः । अदि॑तये । दे॒वस्य॑ । स॒वि॒तुः । स॒वे ।
विश्वा॑ । वा॒मानि॑ । धी॒म॒हि॒ ॥

सायणभाष्यम्

वयमनुष्ठातारः सवितुः प्रेरकस्य देवस्य सवे अनुज्ञायांसत्यां अदितये अखंडनीयायै देव्यैभूम्यै अनागसःस्याम अनपराधिनोभवेम भूम्यांहिपापाःसंभवन्ति अपगतेष्वागःसुविश्वा सर्वाणि वामानि वननीयानि धनानि धीमहिधारयाम ॥ ६ ॥ चातुर्मास्येषुवैश्व्देवेपर्वणिसावित्रस्यद्वादशकपालस्याविश्वदेवमित्यनुवाक्या सूत्रितंच-आविश्वदेवंसत्पतिंवाममद्यसवितरिति । प्रायणीयएषैवसवितुरनुवाक्या सूत्रितंच-आविश्वदेवं सत्पतिंयइमाविश्वाजातानीति । देवसुवांहविष्वेषैवसवितुरनुवाक्या सूत्रितंच- आविश्वदेवंसप्ततिंनप्रमियेसवितुर्दैव्यस्यतदिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६