मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८२, ऋक् ७

संहिता

आ वि॒श्वदे॑वं॒ सत्प॑तिं सू॒क्तैर॒द्या वृ॑णीमहे ।
स॒त्यस॑वं सवि॒तार॑म् ॥

पदपाठः

आ । वि॒श्वऽदे॑वम् । सत्ऽप॑तिम् । सु॒ऽउ॒क्तैः । अ॒द्य । वृ॒णी॒म॒हे॒ ।
स॒त्यऽस॑वम् । स॒वि॒तार॑म् ॥

सायणभाष्यम्

विश्वदेवं विश्वेदेवायस्यवशेभवन्ति तंतादृशं तंहिसर्वात्मत्वादिन्द्रंमित्रंवरुणमग्निमाहुरित्यादिश्रुतेरितरेषांतद्विभूतित्वात् सत्पतिं स- तामनुष्ठातॄणांपालकं सत्यसवं सत्यानुज्ञं सवितारंदेवं अद्यास्मिन्यागदिने सूक्तैरावृणीमहे संभजामहे ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६