मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८३, ऋक् १

संहिता

अच्छा॑ वद त॒वसं॑ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास ।
कनि॑क्रदद्वृष॒भो जी॒रदा॑नू॒ रेतो॑ दधा॒त्योष॑धीषु॒ गर्भ॑म् ॥

पदपाठः

अच्छ॑ । व॒द॒ । त॒वस॑म् । गीः॒ऽभिः । आ॒भिः । स्तु॒हि । प॒र्जन्य॑म् । नम॑सा । आ । वि॒वा॒स॒ ।
कनि॑क्रदत् । वृ॒ष॒भः । जी॒रऽदा॑नुः । रेतः॑ । द॒धा॒ति॒ । ओष॑धीषु । गर्भ॑म् ॥

सायणभाष्यम्

हेस्तोतस्तवसं बलवन्तं पर्जन्यं अच्छाभिप्राप्य वद प्रार्थय पर्जन्यशब्दोयास्केनबहुधानिरुक्तः पर्जन्यस्तृपेराद्यन्तविपरीतस्यतर्पयिता- जन्यः परोजेतावाजरयितावाप्रार्जयितावारसानामिति आभिर्गीर्भिः स्तुतिवाग्भिः स्तुहि नमसान्नेन हविर्लक्षणेनाविवास सर्वतःपरिचर यः पर्जन्योवृषभोपांवर्षिता जीरदानुः क्षिप्रदानः कनिक्रदत् गर्जनशब्दंकुर्वन्नोषधीषुगर्भं गर्भस्थानीयंरेतउदकं दधाति स्थापयति तंस्तुहि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७