मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८३, ऋक् ४

संहिता

प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्व॑ः ।
इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्य॑ः पृथि॒वीं रेत॒साव॑ति ॥

पदपाठः

प्र । वाताः॑ । वान्ति॑ । प॒तय॑न्ति । वि॒ऽद्युतः॑ । उत् । ओष॑धीः । जिह॑ते । पिन्व॑ते । स्वः॑ ।
इरा॑ । विश्व॑स्मै । भुव॑नाय । जा॒य॒ते॒ । यत् । प॒र्जन्यः॑ । पृ॒थि॒वीम् । रेत॑सा । अव॑ति ॥

सायणभाष्यम्

वाताःप्रवान्ति वातावृष्ट्यर्थंपतयन्ति गच्छन्ति समन्तात्संचरन्ति विद्युतओषधीरोषधयउज्जिहते उद्गच्छन्ति प्रवर्धन्ते स्वरन्तरिक्षं- पिन्वते क्षरति इराभूमिर्विश्वस्मैसर्वस्मै भुवनाय सर्वजगद्धिताय जायते समर्थाभवति कदैवामिति यद्यदापर्जन्योदेवः पृथिवीं रेतसोदके- नावतिरक्षति अभिगच्छतिवा तदैवंभवति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७