मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८३, ऋक् ७

संहिता

अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न ।
दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्य॑ञ्चं स॒मा भ॑वन्तू॒द्वतो॑ निपा॒दाः ॥

पदपाठः

अ॒भि । क्र॒न्द॒ । स्त॒नय॑ । गर्भ॑म् । आ । धाः॒ । उ॒द॒न्ऽवता॑ । परि॑ । दी॒य॒ । रथे॑न ।
दृति॑म् । सु । क॒र्ष॒ । विऽसि॑तम् । न्य॑ञ्चम् । स॒माः । भ॒व॒न्तु॒ । उ॒त्ऽवतः॑ । नि॒ऽपा॒दाः ॥

सायणभाष्यम्

अभिभूम्यभिमुखं क्रन्द शब्दय तदेवपुनरुच्यतेदार्ढ्याय स्तनय गर्ज गर्भं गर्भस्थानीयमुदकमोषधीष्वाधाः आधेहि तदर्थमुदन्वता उद- कवतारथेन परिदीय परितोगच्छ दृतिं दृतिवदुदकधारकं मेघं विषितं सु सुष्ठु कर्ष आकर्षवृष्ट्यर्थं यद्वा विषितं विमुक्तबंधनं एवंकर्षएवं शेषेण तंबद्धं न्यंचं न्यक् अधोमुखं विकृत उद्वतः ऊर्ध्ववन्तः उन्नतप्रदेशाः निपादाः न्यग्भूतपादाः निकृष्टपादावा निम्नोन्नतप्रदेशाः समाए- कस्थाभवन्तु उदकपूर्णाभवंत्वित्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८