मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८३, ऋक् १०

संहिता

अव॑र्षीर्व॒र्षमुदु॒ षू गृ॑भा॒याक॒र्धन्वा॒न्यत्ये॑त॒वा उ॑ ।
अजी॑जन॒ ओष॑धी॒र्भोज॑नाय॒ कमु॒त प्र॒जाभ्यो॑ऽविदो मनी॒षाम् ॥

पदपाठः

अव॑र्षीः । व॒र्षम् । उत् । ऊं॒ इति॑ । सु । गृ॒भा॒य॒ । अकः॑ । धन्वा॑नि । अति॑ऽए॒त॒वै । ऊं॒ इति॑ ।
अजी॑जनः । ओष॑धीः । भोज॑नाय । कम् । उ॒त । प्र॒ऽजाभ्यः॑ । अ॒वि॒दः॒ । म॒नी॒षाम् ॥

सायणभाष्यम्

इयमतिवृष्टिविमोचनी हेपर्जन्यत्वमवर्षीर्वृष्टवानसि वर्षमुदुषूगृभाय उदुत्कृष्टं सु सुष्ठुगृभाय गृहाण परिहरेत्यर्थः धन्वानि निरुदकप्रदे- शानकःजलवतःकृतवानसि किमर्थं अत्येतवाउ अतिक्रम्यगन्तुं ओषधीरजीजनः उदपादयः किमर्थं भोजनाय धनाय भोगायवा कमित्ययं- शिशिरंजीवनायकमितिवत्पादपूरणः उतापिच प्रजाभ्यः सकाशात् मनीषां स्तुतिमविदः प्राप्तवानसि ॥ १० ॥

बळित्थेतितृचात्मकंद्वादशंसूक्तं भौमस्यात्रेरार्षं पृथिवीदेवताकं आनुष्टुभं अनुक्रान्तंचबळित्थातृचंपार्थिवमानुष्टुभमिति सूक्तविनियो- गोलैंगिकः आद्यादेवानांहविःषुपृथिव्याअनुवाक्याबळित्थापर्वतानांदृह्ळाचिद्यावनस्पतीनितिहिसूत्रितम् । भूमिस्तोमेत्येषामरुत्वतीयश- स्त्रेसूक्तमुखीया ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८