मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८५, ऋक् ४

संहिता

उ॒नत्ति॒ भूमिं॑ पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित् ।
सम॒भ्रेण॑ वसत॒ पर्व॑तासस्तविषी॒यन्त॑ः श्रथयन्त वी॒राः ॥

पदपाठः

उ॒नत्ति॑ । भूमि॑म् । पृ॒थि॒वीम् । उ॒त । द्याम् । य॒दा । दु॒ग्धम् । वरु॑णः । वष्टि॑ । आत् । इत् ।
सम् । अ॒भ्रेण॑ । व॒स॒त॒ । पर्व॑तासः । त॒वि॒षी॒ऽयन्तः॑ । श्र॒थ॒य॒न्त॒ । वी॒राः ॥

सायणभाष्यम्

वरुणोभूमिंपृथिवीं प्रथितमन्तरिक्षं अन्तरिक्षस्यापिपृथिवीशब्दवाच्यत्वं पूर्वमुक्तं उतापिच द्यां द्युलोकं उनत्ति क्लेदयति यदायंदुग्धं उदकपूरणं वष्टि कामयते अथवा दुग्धमुदकं तेनतत्कार्यमोषध्यादिकंलक्ष्यते ओषध्यादयः प्रवर्धन्तामितियदाकामयते आदित् अनन्तरमे- व संवसत् समाच्छादयन्ति केपर्वतासः पर्ववन्तोद्रयः केन अभ्रेणमेघेन किंच विषीयन्तोबलमिछन्तोवीराविशेषेणवृष्टेः प्रेरयितारोमरुतः श्रथयन्त श्रथयन्तिमेघान् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०