मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८७, ऋक् १

संहिता

प्र वो॑ म॒हे म॒तयो॑ यन्तु॒ विष्ण॑वे म॒रुत्व॑ते गिरि॒जा ए॑व॒याम॑रुत् ।
प्र शर्धा॑य॒ प्रय॑ज्यवे सुखा॒दये॑ त॒वसे॑ भ॒न्ददि॑ष्टये॒ धुनि॑व्रताय॒ शव॑से ॥

पदपाठः

प्र । वः॒ । म॒हे । म॒तयः॑ । य॒न्तु॒ । विष्ण॑वे । म॒रुत्व॑ते । गि॒रि॒ऽजाः । ए॒व॒याम॑रुत् ।
प्र । शर्धा॑य । प्रऽय॑ज्यवे । सु॒ऽखा॒दये॑ । त॒वसे॑ । भ॒न्दत्ऽइ॑ष्टये । धुनि॑ऽव्रताय । शव॑से ॥

सायणभाष्यम्

प्रयन्तु प्रगच्छन्तु गिरिजाः वाचिनिष्पन्नामतयस्तुतयः कस्मै वस्तुभ्यं वचनव्यत्ययः विष्णवेव्याप्तायेन्द्राय विष्णवेवा मरुत्वते मरु- द्भिस्तद्वते कस्यस्तुतयइत्युच्यते एवयामरुत् एतन्नामकस्यऋषेः षष्ठ्यालुक् अथवा यमृषिर्गिरिजाः स्तुतेर्जनयिताभवति उत्तरार्धेमरु- त्स्तुतिः किंच प्रयन्तुस्तुतयः कस्मै शर्धाय बलाय मारुताय इतरत्सर्वंबलविशेषणं प्रयज्यवे प्रकर्षेणयष्टव्याय सुखादयेशोभनाभरणाय खादिराभरणविशेषः हस्तेषुखादिश्चपत्सुखादयइतिचश्रुतेः तवसे बलवते भंददिष्टये स्तुतिरूपाइष्टिर्यस्यतत् भन्ददिष्टि तस्मै धुनिव्रताय मेघानांचालनं कर्मयस्य तादृशाय शवसे गमनवते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३