मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८७, ऋक् ४

संहिता

स च॑क्रमे मह॒तो निरु॑रुक्र॒मः स॑मा॒नस्मा॒त्सद॑स एव॒याम॑रुत् ।
य॒दायु॑क्त॒ त्मना॒ स्वादधि॒ ष्णुभि॒र्विष्प॑र्धसो॒ विम॑हसो॒ जिगा॑ति॒ शेवृ॑धो॒ नृभि॑ः ॥

पदपाठः

सः । च॒क्र॒मे॒ । म॒ह॒तः । निः । उ॒रु॒ऽक्र॒मः । स॒मा॒नस्मा॑त् । सद॑सः । ए॒व॒याम॑रुत् ।
य॒दा । अयु॑क्त । त्मना॑ । स्वात् । अधि॑ । स्नुऽभिः॑ । विऽस्प॑र्धसः । विऽम॑हसः । जिगा॑ति । शेऽवृ॑धः । नृऽभिः॑ ॥

सायणभाष्यम्

समरुद्गणोमहतः प्रवृद्धात् समानस्मात् सर्वेषांसाधारणात् सदसः स्थानादन्तरिक्षात् उरुक्रमोविस्तीर्णक्रमणःसन् निश्चक्रमे निरग- च्छत् कदेत्युच्यते एवयामरुदृषिः यदा स्वात्स्वकीयस्थानात् अधीतिपंचम्यर्थानुवादी त्मना आत्मनैव स्नुभिर्गन्तृभिर्नृभिः स्वनेतृभिरश्वै- रयुक्त युक्तोभवदागमनप्रार्थनाय अथ बहुवदुष्यते तदानीं विस्पर्धसः विविधस्पर्धाः अहंपुरतोगच्छाम्यहं पुरतोगच्छामीति तेषांस्पर्धा अथवा विगतस्पर्धानह्येषांसार्धंस्पर्धकाःसन्ति विमहसोविशिष्टबलाः शेवृधः शेवस्यसुखस्यवर्धयितारः जिगाति निर्गच्छन्ति व्यत्ययेनै- कवचनम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३