मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८७, ऋक् ८

संहिता

अ॒द्वे॒षो नो॑ मरुतो गा॒तुमेत॑न॒ श्रोता॒ हवं॑ जरि॒तुरे॑व॒याम॑रुत् ।
विष्णो॑र्म॒हः स॑मन्यवो युयोतन॒ स्मद्र॒थ्यो॒३॒॑ न दं॒सनाप॒ द्वेषां॑सि सनु॒तः ॥

पदपाठः

अ॒द्वे॒षः । नः॒ । म॒रु॒तः॒ । गा॒तुम् । आ । इ॒त॒न॒ । श्रोत॑ । हव॑म् । ज॒रि॒तुः । ए॒व॒याम॑रुत् ।
विष्णोः॑ । म॒हः । स॒ऽम॒न्य॒वः॒ । यु॒यो॒त॒न॒ । स्मत् । र॒थ्यः॑ । न । दं॒सना॑ । अप॑ । द्वेषां॑सि । स॒नु॒तरिति॑ ॥

सायणभाष्यम्

हेमरुतः अद्वेषः अद्वेषसोयूयं नोस्माकं गातुं गमनस्वभावंस्तोत्रंप्रति आइतन आगच्छत तदर्थं जरितुः स्तोतुरेवयामरुत् एवयामरुतो- ममहवं श्रोत श्रृणुत विष्णोर्व्यापकस्येन्द्रस्य महोमहतो हेसमन्यवःसमानयज्ञाः यूयं स्मत् अयंप्रशस्तनाम प्रशस्तारथ्योन रथिनोयोद्धा- रइव तेयथाशत्रूनपाकुर्वन्ति तद्वदस्माकं दंसना कर्मणा सनुतः अन्तर्हितनामैतत् अन्तर्हितान द्वेषांसि द्वेष्टृन् अपयुयोतन दूरेवियोजयत पृथक्कुरुत ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४