मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १, ऋक् १०

संहिता

अ॒स्मा उ॑ ते॒ महि॑ म॒हे वि॑धेम॒ नमो॑भिरग्ने स॒मिधो॒त ह॒व्यैः ।
वेदी॑ सूनो सहसो गी॒र्भिरु॒क्थैरा ते॑ भ॒द्रायां॑ सुम॒तौ य॑तेम ॥

पदपाठः

अ॒स्मै । ऊं॒ इति॑ । ते॒ । महि॑ । म॒हे । वि॒धे॒म॒ । नमः॑ऽभिः । अ॒ग्ने॒ । स॒म्ऽइधा । उ॒त । ह॒व्यैः ।
वेदी॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । गीः॒ऽभिः । उ॒क्थैः । आ । ते॒ । भ॒द्राया॑म् । सु॒ऽम॒तौ । य॒ते॒म॒ ॥

सायणभाष्यम्

हेअग्ने महे महते अस्मै तेतुभ्यं महि महत् अत्यधिकंविधेम परिचरेम कैरितिउच्यते नमोभिःनमस्कारैः समिधावा उतापिच हव्यैर्ह- विर्भिः हेसहसःसूनो बलस्यपुत्र वेदी वेद्यां गीर्भिः स्तोत्रैरुक्थैः शस्त्रैश्च विधेमेतिसंबन्धः किंच ते तव भद्रायां स्तुत्यायां सुमतौ शोभनानु- ग्रहबुद्धौ आयतेम आगच्छेमभवेमेत्यर्थः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६