मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २, ऋक् ७

संहिता

अधा॒ हि वि॒क्ष्वीड्योऽसि॑ प्रि॒यो नो॒ अति॑थिः ।
र॒ण्वः पु॒री॑व॒ जूर्य॑ः सू॒नुर्न त्र॑य॒याय्य॑ः ॥

पदपाठः

अध॑ । हि । वि॒क्षु । ईड्यः॑ । असि॑ । प्रि॒यः । नः॒ । अति॑थिः ।
र॒ण्वः । पु॒रिऽइ॑व । जूर्यः॑ । सू॒नुः । न । त्र॒य॒याय्यः॑ ॥

सायणभाष्यम्

अधापिच विक्षु प्रजासु हेअग्ने त्वमीड्यः स्तुत्योसि भवसि हियस्मादर्थे यस्मादेवं तस्मान्नोस्माकमतिथिः लुप्तोपममेतत् अतिथिरिव- प्रियोसि यद्वा हविर्हहनाय सततगामीभूत्वास्माकंप्रियोसि तथा पुरीव नगर्यां जूर्यः जीर्णोवृद्धोहितोपदेष्टा राजेव रण्वोरमणीयोगन्त्व्यो- वा भवसि तथा सूनुर्न पुत्रइव त्रययाय्यः यजमानैस्त्रातव्यः पालयितव्योभवसि त्रायतेरेतद्रूपं यद्वैतत्सूनोर्विशेषणं विद्यातपःकर्मलक्षणं त्रयंयातीतित्रययाय्यः यातेरौणादिकआय्यप्रत्ययः स्पृहयाय्यइतियथा अथवा त्रययाय्योजन्मत्रयंप्राप्तः जन्मत्रयंस्मर्यते मातुरग्नेधिजननं- द्वितीयंमौंजिबन्धनात् । तृतीयंयज्ञदीक्षायाइतिजन्मत्रयंस्मृतमिति ॥ तादृशः पुत्रइतिरण्वोरमणीयोसि ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः