मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २, ऋक् ९

संहिता

त्वं त्या चि॒दच्यु॒ताग्ने॑ प॒शुर्न यव॑से ।
धामा॑ ह॒ यत्ते॑ अजर॒ वना॑ वृ॒श्चन्ति॒ शिक्व॑सः ॥

पदपाठः

त्वम् । त्या । चि॒त् । अच्यु॑ता । अग्ने॑ । प॒शुः । न । यव॑से ।
धाम॑ । ह॒ । यत् । ते॒ । अ॒ज॒र॒ । वना॑ । वृ॒श्चन्ति॑ । शिक्व॑सः ॥

सायणभाष्यम्

हेअग्ने त्वन्त्या तानिकाष्ठानि चिच्छब्दोपिशब्दसमानार्थोभिन्नक्रमः अच्युताअच्युतानि च्यावयितुमशक्यान्यपि अत्सीतिशेषः तत्रदृ- ष्टान्तः यवसे घासेविसृष्टः पशुरिव सयथा सर्वंभक्षयति तथा त्वं प्रौढकाष्ठादीनि क्षणमात्रेणदहसीत्यर्थः हेअजर जरारहिताग्ने यद्यस्य सुपांसुलुगितिषष्ठ्याअलुक् शिक्वसोदीप्तस्य ते तव धाम धामानि तेजांसि वना वननीयानिसंभजनीयान्यरण्यानि वृश्चन्ति छिन्दन्ति तक्षन्ति सत्वमितिपर्वत्रान्वयः हेत्येत्त्पादपूरणम् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः