मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३, ऋक् १

संहिता

अग्ने॒ स क्षे॑षदृत॒पा ऋ॑ते॒जा उ॒रु ज्योति॑र्नशते देव॒युष्टे॑ ।
यं त्वं मि॒त्रेण॒ वरु॑णः स॒जोषा॒ देव॒ पासि॒ त्यज॑सा॒ मर्त॒मंहः॑ ॥

पदपाठः

अग्ने॑ । सः । क्षे॒ष॒त् । ऋ॒त॒ऽपाः । ऋ॒ते॒ऽजाः । उ॒रु । ज्योतिः॑ । न॒श॒ते॒ । दे॒व॒ऽयुः । ते॒ ।
यम् । त्वम् । मि॒त्रेण॑ । वरु॑णः । स॒ऽजोषाः॑ । देव॑ । पासि॑ । त्यज॑सा । मर्त॑म् । अंहः॑ ॥

सायणभाष्यम्

हेअग्ने सयजमानः क्षेषत् क्षयति निवसति चिरकालंजीवेदित्यर्थः कीदृशोयजमानः ऋतपाः ऋतस्ययज्ञस्य पालकः ऋतेजाः यज्ञनि- मित्तंजातः उषित्वाच तेत्वदियं देवयुर्देवानात्मनइच्छन् सयजमानः उरुविस्तीर्णं ज्योतिःसूर्याख्यं नशते प्राप्नोति हेदेव द्योतमानाग्ने यं मर्तं मनुष्यंयजमानं मित्रेण वरुणः तृतीयार्थेप्रथमा वरुणेनच सजोषाः सहप्रीयमाणस्त्वं त्यजसा त्याजनसाधनेनायुधेनांहःअंहसःपापात् पासि रक्षसि सयजमानइतिपर्वत्रसंबन्धः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः