सूरो॒ न यस्य॑ दृश॒तिर॑रे॒पा भी॒मा यदेति॑ शुच॒तस्त॒ आ धीः ।
हेष॑स्वतः शु॒रुधो॒ नायम॒क्तोः कुत्रा॑ चिद्र॒ण्वो व॑स॒तिर्व॑ने॒जाः ॥
सूरः॑ । न । यस्य॑ । दृ॒श॒तिः । अ॒रे॒पाः । भी॒मा । यत् । एति॑ । शु॒च॒तः । ते॒ । आ । धीः ।
हेष॑स्वतः । शु॒रुधः॑ । न । अ॒यम् । अ॒क्तोः । कुत्र॑ । चि॒त् । र॒ण्वः । व॒स॒तिः । व॒ने॒ऽजाः ॥
सूरोन सूर्यस्येवयस्याग्नेः दृशतिः दर्शनं अरेपाः पापरहितं हेअग्ने यत् यस्य ते तव शुचतोज्वलतः धीः धारयित्रीज्वाला भीमा भयङ्क- रासती आसमन्तादेति गच्छति योयमग्निः हेषस्वतः शब्दयुक्ताः शुरुधोन शुचः शोकस्यरोधयित्रीगाश्च अक्तोः अक्तुरितिरात्रिनाम तेनच तत्रसञ्चारीराक्षसादिर्लक्ष्यते राक्षसादेःस्वभूताददातीतिशेषः सोयंवसतिः सर्वेषामावासभूतः वनेजाः अरण्येजायमानः कुत्राचित् क्वचिदे- वस्थाने पर्वताग्रादौ रण्वो रमणीयोभवति ॥ ३ ॥