मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४, ऋक् १

संहिता

यथा॑ होत॒र्मनु॑षो दे॒वता॑ता य॒ज्ञेभि॑ः सूनो सहसो॒ यजा॑सि ।
ए॒वा नो॑ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ॥

पदपाठः

यथा॑ । हो॒तः॒ । मनु॑षः । दे॒वऽता॑ता । य॒ज्ञेभिः॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यजा॑सि ।
ए॒व । नः॒ । अ॒द्य । स॒म॒ना । स॒मा॒नान् । उ॒शन् । अ॒ग्ने॒ । उ॒श॒तः । य॒क्षि॒ । दे॒वान् ॥

सायणभाष्यम्

हेहोतः देवानामाह्वातः सहसःसूनो बलस्यपुत्राग्ने यथा येनप्रकारेण मनुषः मनोः प्रजापतेः यजमानस्य देवताता यज्ञनामैतत् देवता- तौ यज्ञे यज्ञेभिर्यजमानसाधनैर्हविर्भिः यजासि देवान्यजसि एव एवं हेअग्ने नोस्माकं अद्यास्मिन्यज्ञे समानान् त्वत्सदृशानिन्द्रादीनुशन्- कामयमानस्त्वं उशतः कामयमानान्यष्टव्यान्देवान् समना क्षिप्रं यक्षि यज यद्वा समानंमन्यन्तेस्मिन्देवानितिसमनोयज्ञस्तस्मिन्नितियो- ज्यम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः