मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५, ऋक् १

संहिता

हु॒वे वः॑ सू॒नुं सह॑सो॒ युवा॑न॒मद्रो॑घवाचं म॒तिभि॒र्यवि॑ष्ठम् ।
य इन्व॑ति॒ द्रवि॑णानि॒ प्रचे॑ता वि॒श्ववा॑राणि पुरु॒वारो॑ अ॒ध्रुक् ॥

पदपाठः

हु॒वे । वः॒ । सू॒नुम् । सह॑सः । युवा॑नम् । अद्रो॑घऽवाचम् । म॒तिऽभिः॑ । यवि॑ष्ठम् ।
यः । इन्व॑ति । द्रवि॑णानि । प्रऽचे॑ताः । वि॒श्वऽवा॑राणि । पु॒रु॒ऽवारः॑ । अ॒ध्रुक् ॥

सायणभाष्यम्

हेअग्ने वः व्यत्ययेनबहुवचनं त्वां मतिभिर्मननीयैस्तोत्रैः हुवे आह्वयामि कीदृशं सहसोबलस्य सूनुं पुत्रं अग्निर्हिबलेनमथ्यमानोजायते युवानं नित्यतरुणं फलस्यमिश्रयितारंवा अद्रोघवाचं अद्रोग्धव्या प्रशस्ता स्तुतिरूपावाक् यस्मिन्प्रयुज्यते तादृशं यविष्ठं अतिशयेनयुवानं प्रचेताः प्रकृष्टज्ञानाः पुरुवारः पुरुभिर्बहुभिर्वरणीयःसम्भजनीयः अध्रुक् अद्रोग्धा यजमानानां एवंभूतोयोग्निः विश्ववाराणि सर्वैर्वरणीया- नि प्रशस्यानि द्रविणानि धनानि इन्वति प्रेरयति स्तोतृभ्योददातीतियावत् तं त्वां हुवेइतिपूर्वत्रसंबन्धः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः